Wednesday, December 5, 2018

श्रीमद्भागवतदशमस्कन्धानुसारं गोपीकृष्णसम्बन्धः


श्रीमद्भागवतमहापुराणस्य दशमस्कन्धः ज्योतिस्वरूपो विद्यते। क्रीडनार्थं लोकरञ्जनार्थं किं वा भक्तकल्याणार्थं भागद्वये राधामाधवस्वरूपे द्विधा विभक्तोऽस्ति। अत्र नवतिरध्यायाः षट्चत्वारिंशतोत्तरनवशताधिकत्रिसहस्रमन्त्राः किंवा श्लोकास्सन्ति। दशमस्कन्धः कालव्यालमुखग्रासत्रासनिर्णासकारकः सर्वविधभवसागरव्याधिदशनपुरस्सरनिकुञ्जानन्दप्रदायको विद्यते। यतोहि गोलोकमध्ये विराजमाने वृन्दावने शोभासम्पन्नः राधावरः श्रीकृष्णः रसस्वरूपो विद्यते। यथोक्तमुपनिषदि –
रसो वै सः। रसं ह्येवायं लब्ध्वा नन्दी भवति। (तै०उ०)
एवञ्च दशमस्कन्धे रसवर्णनं विद्यते। रसानां समूहः रासः भवति। रासेन धर्मार्थकाममोक्षस्वरूपपुरुषार्थप्राप्तिः सुलभतयैव भवति। अष्टौ काव्ये रसाः स्मृताः’ इति वचनेन प्रधानपत्न्यः अष्टौ रसाः तथा च अष्टोत्तरशताधिकषोडशसहस्रपत्न्यः मन्त्रात्मिकाः गोप्योऽपि वेदपुरुषस्य पत्न्यः सन्ति।
जनानां मनसि गोपीकृष्णयोः सम्बन्धविषये अनेकाः भ्रान्तय उत्पन्नाः भवन्ति, यथा – श्रीकृष्णः अष्टोत्तरशताधिकषोडशसहस्रविवाहः कृतः, मथुरागमनात्पूर्वं बहुभिः गोपिकाभिस्सह मधुरः सम्बन्धश्च स्थापितः। कीदृशोऽयं योगेश्वरः यः स्त्रीभिस्सहातिकामुकनेव व्यवहरति स्म। सनातनविरोधिनः किंवाऽन्यधर्मावलम्बिनस्तु एवमाक्षेपं कुर्वन्त्येव भक्तानां मनस्यप्येतादृशी जिज्ञासोत्पद्यते। कारणमेतस्यैवमस्ति यत्ते घटनाक्रमं सावधानमनसा नावलोकयन्ति। यतोहि योगीश्वरस्य कृष्णस्य व्रजे सति गोप्यः सर्वदैव कृष्णदर्शनायोत्सुकाः भवन्ति स्म। एकस्मिन्नहनि यदा यशोदया बालकृष्णः गृहे एव निरुद्धः तदा कृष्णादर्शनेन व्यग्राः गोप्यः नन्दगृहमागत्य यशोदां कृष्णं प्रत्युपलब्धुमेवं प्रोवाच् –
वत्सान् मुञ्चन् क्वचिदसमये क्रोशसंजातहासः स्तेयं स्वाद्वत्त्यथ दधि पयः कल्पितैः स्तेययोगैः।
मर्कान् भोक्ष्यन् विभजति स चेन्नात्ति भाण्डं भिनत्तिद्रव्यालाभे स गृहकुपितो यात्युपक्रोश्य तोकान्॥[1]
अपि च
हस्तग्राह्ये रचयति विधिं पीठकोलूखलाद्यैश्छिद्रः ह्यन्तर्निहितवयुनः शिक्यभाण्डेषु तद्वित्।
ध्वान्तागारे धृतमणिगणं स्वांगमर्थप्रदीपं काले गोप्यो यर्हि गृहकृत्येषु सुव्यग्रचित्ताः॥[2]
       यशोदा ब्रजाङ्गनानां मानसिकावस्थामवलोक्य कृष्णं गोपीनां मध्ये आनयति तदा गोप्यः आनन्दमनुभवन् कथयन्ति यत् वयन्त्वत्र केवलं कृष्णं द्रष्टुमागताः स्मः, यतोह्यद्य त्वया कृष्णः गृहे एव निरुद्धः। प्रातः कालादेव एतस्य दर्शनमस्मास्भिर्न कृतम्, तेनास्माकं मनः व्यग्र आसीत्। अत एव वयमुपालब्धुव्याजं समागतास्स्म। गोप्यः कृष्णस्य वेणोः ध्वनिमाधुर्ये मुग्धा आसन्नेव कृष्णस्य च प्रतिचेष्टं, मुखाकृतिं, हासं रूपमाधुर्यञ्च प्रतिक्षणं स्मरन्ति स्म। ताः कृष्णं नवनीतं खादयन्ति स्म चौरमपि कथयन्ति स्म। मार्गशीर्षे मासि व्रजकुमारिभिः भगवत्याः कात्यायन्याः पूजा कृता व्रतश्चाचरितः येन ताः कृष्णं पतिरूपेणे प्राप्तुं शक्नुयुः। यदा गोपाः वस्त्रं विना यमुनायां स्नानं कुर्वन्ति स्म तदा ताः शिक्षयितुं कृष्णः सखिभिस्सह तासां वस्त्रान्नाहरति –
तासां वासांस्युपादाय नीपमारुह्य सत्वरः। हसद्भिः प्रहसन् बालै परिहासमुवाच ह॥[3]
पुनश्च
यूयं विवस्त्रा यदपो धृतव्रता व्यगाहतैतत्तदु देवहेलनम्।
बद्ध्वाञ्जलिं मूर्ध्न्यपनुत्तयेंऽहसः कृत्वा नमोऽधो वसनं प्रगृह्यताम्॥[4]
इत्यादिरूपेण ताः शिक्षयति श्रीकृष्णः तथा च यदा व्रजकुमार्यः वरुणदेवताम्प्रति स्वक्षमायाचनामर्पयन्ति तदा कृष्णः तासां वसनानि प्रत्यर्पयति।
       रासलीलावसरे योगीश्वरः श्रीकृष्णः दशवर्षीय एवासीत्। कामप्यागन्तुं सन्देशं न प्रेषयति श्रीकृष्णः। गोपीनां कामनापूर्त्यर्थं वेणोरस्पष्टं मधुरञ्च कामबीजं क्लीं’ इति ध्वनिं वादयति। प्रत्येकं गोपी स्वस्यायेव निमत्रणं मत्वान्योन्यमलक्षितोद्यमाः ताः तत्र प्राप्ताः यत्र योगेशः स्थित आसीत्। शरन्मासस्य पूर्णिमाया रात्रिरियम्। सर्वप्रथममं तासां स्वागतं व्याहरति श्रीष्णः –
स्वगतं वो महाभागाः प्रियं किं करवाणि वः। ब्रजस्यानामयं कच्चिद् ब्रूतागमनकारणम्॥[5]
पुनश्च ताः उपदिशति यद्भवतीनामाचरणं धर्मविरुद्धमस्ति। निशाकालस्तु भयानको भवति। अत्रेदानीन्नागन्तव्यमासीत् –
रजन्येषा घोररूपा घोरसत्वनिषेविता। प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सुमध्यमाः॥[6]
ततः गोप्यः दुःखेन विह्वलाः भूत्वा रुदन्ति, अनुनयविनयपूर्वकं कथयन्ति च –
मैवंविभोर्हति भवान् गदितुं नृशंसं सन्त्यज्य सर्वविषयांस्तव पादमूलम्।
भक्ता भजस्व दुरवग्रह मा त्यजास्मान् देवो यथादिपुरुषो भजते मुमुक्षून्॥[7]
पुनश्च
सिञ्चाङ्ग नस्त्वधरामृतपूरकेण हासावलोककलगीतजहृच्छयाग्निम्।
नो चेद्वयं विरहजाग्न्युपयुक्तदेहा ध्यानेन याम पदयोः पदवीं सखे ते॥[8]
       ततः भगवता स्वचेष्टाः गोपीनामनुकूलाः कृताः। ताभिस्सह विहरति श्रीकृष्णः। तेन विहरणेन सम्मानं प्राप्य मानवत्योऽभवन् भुव्यात्मानं सर्वश्रेष्ठं परिकल्पन्ते। तासां तत्सौभाग्यमदं वीक्ष्य केशवः तत्रैवान्तरधीयत। सहसैव भगवत्यन्तर्निहिते व्रजाङ्गनाः अतप्यंस्तमचक्षाणाः। गोप्यः कृष्णदर्शनलालसा चित्रधा प्रगायन्त्यः प्रलपन्त्यः सुस्वरञ्च रुरुदुः। गोपीनामार्तभावं वीक्ष्य पीताम्बरधरः तासामाविरभूत् ताभिस्सह च यमुनायाः पुलिने प्रविश्य रासं व्याहरत् –
रासोत्सवः सम्प्रवृत्तो गोपीमण्डलमण्डितः। योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर्द्वयोः।
प्रविष्टेन गृहीतानां कण्ठे स्वनिकटं स्त्रियः॥[9]
ब्रह्मरात्र उपवृत्ते वासुदेवेनानुमोदिताः गोप्योऽनिच्छन्त्यो स्वगृहान् ययुः। गृहे च कृष्णस्य मायया गोपाः स्वान् स्वान् दारान् स्वपार्श्वस्थानं मन्यमानाः कृष्णाय खलु नासूयन्।
       किञ्चित्कालानन्तरं कृष्णः मथुरामाप्नोत्। न कदापि पुनः व्रजं प्रत्यावर्तत। पूर्वघटितानां मधुरस्मृतीनामाधारेणैव श्रीकृष्णं स्वसर्वस्वं मानयन् व्रजाङ्गनाः जीवमानाः। तासां कृष्णेन सह पुनर्मेलनं सूर्यग्रहणावसरे समन्तपञ्चकक्षेत्रेऽभूत्। तत्र वासुदेवं प्राप्य गोप्यः मनसि अत्यानन्दमनुभवन्ति। तत्र गोपालनन्दनः ताः कथयति यत् –
मयि भक्तिर्हि भूतानाममृतत्वाय कल्पते। दिष्ट्या यदासीन्मत्स्नेहो भवतीनां मदापनः॥[10]
कर्हिचित् सुखमासीनं जगद्गुरुं रुक्मिणी पर्यचरत्तदा भगवान् रुक्मिणीम्प्रति प्रोवाच – भूपैः लोकपालैः विभूतिभिः ये खलु रूपौदार्यबलोर्जितास्सन्ति ताभिः भैष्मीप्सिता। पुनश्च भवत्याः पिता भ्राता च शिशुपालेन तव विवाहस्य वाग्दानमपि कृतवन्तौ स्तः। कथं पुनः भवती तान् प्राप्तानर्थिनो हित्व मामसमं बवृषे? यादवानामस्माकं लोकव्यवहारमपि समुचितन्नास्ति। न वयं कस्यापि मार्गविशेषस्यानुनायिनः। अतो यदि वैदर्भी इच्छेच्चेत् स्वनिर्णये पुनर्विचारं वा कृत्वा स्वानुरूपेण केनापि योग्यवरेण सह विवाहं कर्तुं शक्नोति। त्रिलोकेशपतेरात्मनः प्रियस्यैवम्प्रकारकमश्रुतपूर्वमप्रियमाश्रुत्य जातवेपथुः रुक्मिणी भीता भवति तथा च सा हृदि दुरन्तां चिन्तां प्राप्नोत्येवञ्च रुदति। भैष्म्याः मनसि शंका उत्पद्यते यत्किं जगत्पतिः मान्त्यक्तुमिच्छति? तदा हास्यप्रौढिभ्रान्ता वैदर्भी भगवता परिसान्त्विता। पुनः तत्परिहासोक्तिं ज्ञात्वा प्रियत्यागभयञ्च जहौ भगवन्मुखञ्च वीक्षन्ती सा बभाष – पुरुषोत्तमकृष्णेन जीवने यदपि व्यवहृतं, तेषु सर्वेषु तस्य शारीरिकस्य सुखभोगस्य कामना कदापि नासीत्। याः अष्टौ प्रधानपत्न्यः सन्ति, ताभिस्सह विवाहोऽपि तासां कामनापूर्त्यायभूत्। शताधिषोडशसहस्रविवाहोऽपि राजपुत्रीणामुद्धारनिमित्तमेवाभूत्। ब्रजाङ्गनाभिस्सह रासोऽपि गोपीनां कामनापूर्त्यायभवत्, स्ववचनानुपालनमात्रमेवासीत्। वर्णनानुसारं गोप्यस्तु श्रुतिरूपा एव, पुनश्च श्रुतीनां वेदपुरुषेण कृष्णेन सह सम्बन्धस्त्वति दिव्यं पवित्रञ्चास्ति। अथ च वर्णितमस्ति –
विक्रीडितं व्रजवधूभिरिदं च विष्णोः श्रद्धान्वितोऽनुशृणुयादथ वर्णयेद् यः।
भक्तिं परां भगवति प्रतिलभ्य कामं हृद्रोगमाश्वपहिनोत्यचिरेण धीरः॥[11]
शरशय्यायां स्थितः सन् भीष्मः जगत्प्रभोः महतीं स्तुतिं विदधति। तस्यां स्तुतौ तेन गोपीनामपि स्तुतिः कृता
ललितगतिविलासवल्गुहासप्रणयनिरीक्षणकल्पितोरुमानाः।
कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिमगन् किल यस्य गोपवध्वः॥[12]
तात्कालिकेन केनापि, महात्मना किंवा ऋषिणा स्त्रीणां सन्दर्भे कृष्णस्य विषये कीदृश्यपि प्रतिकूला टिप्पणी न कृता।
विश्वस्य उत्पत्तिस्थितिप्रलयकारणस्य श्रीकृष्णस्य लीला न कोऽप्यन्यः कर्तुं शक्नोति। यथा लीलापुरुषोत्तमः श्रीकृष्णश्चकार। अत एव तेषां कर्मणां गानं श्रवणं सर्वथा कर्त्तव्यमस्ति। अनेनैव मोक्षमार्गस्वरूपस्यास्य श्रीकृष्णस्यानुसरणेन श्रीकृष्णचरणयोः परमप्रेममयी भक्तिर्जायते। यतो ह्ययं स्वयं रासस्वरूपो किंवा आनन्दस्वरूपो विद्यते।
आनन्दं ब्रह्मणो विद्वान् न बिभेति कदाचन।[13]
स्वप्रकाशानन्दः सर्वतन्त्रस्वतन्त्रः चिन्मयो रसस्वरूपः परमब्रह्म विद्यते। अस्य ब्रह्मणः आनन्दास्वादो द्विधानुभूयते। मुख्यरूपेण गौणरूपेण च। तत्र वेदान्तमाध्यमेनानुभूयमानो ब्रह्मानन्दास्वादो साहित्ये ब्रह्मास्वादसहोदरः कथ्यते। स एव प्रथमः आनन्दो भावुकैः साधकैरनुभूयते, सोऽपिकेवलं माधुर्यभावोपासकैरेव। उपासनायां शान्तदास्यसख्यवात्सल्यमधुरभावेषु मधुरभावापरपर्यायो गोपीभाव एव सर्वश्रेयानिति विबुधवरैर्भक्तैरुच्यते। यथोक्तं प्रकाण्डदार्शनिकैन्र्यायवेदान्ताद्यनेकशास्त्रमर्मज्ञैः अद्वैतसिद्धिसदृशाद्वैतवादस्य परमोच्चकोटिकग्रन्थकारैरनन्यश्रीकृष्णभक्तैः स्वामिश्री मधुसूदनसरस्वतीपादैः स्वरचिते भक्तिरसायनग्रन्थे -
शृङ्गारो मिश्रितत्वेऽपि सर्वेभ्यो बलवत्तरः। तीव्रतीव्रतरत्वं हि रतेस्तत्रैव वीक्ष्यते।।[14]
इत्यादिना शृङ्गारभक्तेरेव श्रेष्ठत्ववर्णनात्। भावेऽस्मिन्नेव सर्वेषां शान्तादिभावानां भवति समाहारः। मधुरेऽस्मिन् गोपीभावे शान्तदास्यसख्यवात्सल्यादीनां समावेशः सहृदयहृदयवेद्यः। यथा -
यत्ते सुजातचरणाम्बुरुहं स्तनेषु भीताः शनैः प्रियदधीमहि कर्कशेषु।
तेनाटवीमटसि तद्व्यथते न किंस्वित्कूर्पादिभिभ्र्रमति धीर्भवदायुषां नः।।[15]
इत्यादौ गोपीगीतेषु तासां शृङ्गाररसोपासिकानां व्रजसुन्दरीणां वात्सल्यं सुस्पष्टम्।
न खलुगोपिकानन्दनो भवानखिलदेहिनामन्तरात्मदृक्।
विखनसार्थितो विश्वगुप्तयेसख उदेयिवान् सात्वतां कुले।।[16]
इत्यादौ शान्तभावस्य -
भज सखे भवत् किङ्करीः स्म नो, जलरुहाननं चारु दर्शय।[17]
इत्यत्र सख्यभावस्य स्पष्टत्वात्।
फणिफणार्पितं ते पदाम्बुजं कृणु कुचेषु नः कृन्धि हृच्छयम्।[18]
इत्यादौ मधुरभावस्य स्पष्टत्वात्। मधुरभाव एव रसरूपस्य ब्रह्मानन्दस्य भगवतः पूर्णानुभवः पूर्णोपभोगश्चेत्यत्रैव एकस्य महाभागवतस्य कस्यचित् रसमर्मज्ञस्यानुभूतिः सहृदयैरवश्यं चिन्तनीया -
मुक्तमुनीनां मृग्यं किमपि फलं देवकी फलति। तत्पालयति यशोदा प्रकाममुपभुञ्जते गोप्यः।।[19]
अर्थात् रसमयं हेयादिविवर्जितम् -
पिबत भागवतं रसमालयम्।[20]
इत्यादिना श्रीमद्भागवते महापुराणे समुपवर्णितं सर्वाकर्षकं कृष्णाभिधानमितररागविस्मारकं किमप्यनिर्वचनीयं तत्फलं मथुरामण्डले देवकीतरौ फलति। तत्फलमद्यापि मुक्तमुनीनामपि मृग्यमेव, अतिदुर्लभत्वात् इदानींपर्यन्तमप्राप्तमेव। देवकीतरौ निष्पद्यमानं सुदुर्लभं तत्फलं यशोदानाम्नी काचित् महाभागा गोपी पालयति, परं तस्य फलस्य रसस्य प्रकामोपभोगो महाभागाभिः व्रजसुन्दरीभिरेव क्रियते। सर्वथा सत्येयमनुभूतिः सहृदयहृदयवेद्या श्रुत्यादिशास्त्रसिद्धा च।
अनेन सिद्ध्यति यदेकैव परब्रह्म राधाकृष्णात्मकं किं वा गोपीकृष्णात्मकम्। अर्थान्नित्यः गोपीकृष्णसम्बन्धः।



[1] श्रीम०भा० 10/8/29
[2] श्रीम०भा० 10/8/30
[3] श्रीम०भा० 10/22/9                                                           
[4] श्रीम०भा० 10/22/19
[5] श्रीम०भा० 10/29/18
[6] श्रीम०भा० 10/29/19
[7] श्रीम०भा० 10/29/31
[8] श्रीम०भा० 10/29/35
[9] श्रीम०भा० 10/33/3
[10] श्रीम०भा० 10/82/45
[11] श्रीम०भा० 10/33/40
[12] श्रीम०भा० 1/9/40
[13] वेदान्तसार भूमिका, पृ0 15
[14] भक्ति रसा0 2/36
[15] श्रीम०भा० 10/31/19
[16] श्रीम०भा० 10/31/4
[17] श्रीम०भा० 10/31/6
[18] श्रीम०भा० 10/31/7
[19] श्रीपद्यावली, पृ0 167
[20] श्रीम०भा० 1/1/3

Sunday, December 21, 2014

अभिक्रमिताधिगमे सङ्गणकसहानुदेशनम्



      अस्माकं वर्तमानशैक्षिकसंदर्भः तीव्रगत्या परिवर्तमानोऽस्ति। अधुना शिक्षणस्य धारणायाः तस्य गतिशीलस्वरूपस्य एवं शिक्षकच्छात्रयोः भूमिकाविषये नवीनपद्धत्या विचारस्य तथा च तस्य क्रियान्वयनकरणस्यावश्यकता वरीवर्ति। यदा खल्वस्माकं भारतीयशिक्षापद्धतिः अधुनापि रूढिवादिताभिः पूर्वाग्रहैः ग्रसिता दृश्यमानास्ति। तत्रैव नूतनवैज्ञानिकपद्धतिज्ञानस्य (प्रौद्योगिकज्ञानस्य) प्रयोगेण शिक्षणव्यवस्थामति सुदृढां कर्तुं प्रयासोऽपि अनुष्ठीयते। शिक्षाक्षेत्रे दूरदर्शनस्य, आकाशवाण्याः तथा च ध्वनिसङ्ग्रहयन्त्रस्य (टेपरेकार्डपदवाच्यस्य) प्रयोगेण  सहैव संगणकेनापि विद्यालयेषु शिक्षणव्यवस्थाः सञ्चालिताः भवन्ति, किन्त्वधिकेषु स्थानेष्वधुनापि स्लाइडनामकेन यन्त्रमाध्यमेन चलचित्रमाध्यमेनैव च (फिलोसन) शिक्षणं भवति। कतिपयेषु विश्वविद्यालयेष्वेकं सुनिश्चितं कार्यक्रमं संविधाय सङ्गणकमाध्यमेन छात्राणामनुदेशनं भवति। विंशत्यधिकैकोनविंशतिखृस्ताब्दे (1920) सिडनी एल० प्रैसीमहोदयेनैकस्यैवं विधस्यानुदेशनयन्त्रस्य निर्माणं कृतं यद्यन्त्रं छात्राणां समक्षमेकां प्रश्नशृङ्खलां प्रस्तौति स्म तथा च प्रश्नोत्तरदानानन्तरं त्वरितमेव तस्य निजोत्तरस्य शुद्धाशुद्धयोः ज्ञानप्राप्तिर्भवति स्म। अनेन छात्राः निजनिर्धारितोद्देश्यानां प्राप्तये द्विगुणितशक्त्या प्रेरिताः सन्तः प्रभावकारिपद्धत्या संलग्नाः भवन्ति स्म। यतो हि तेषां निजप्रगतेः ज्ञानमनेन सहैव प्राप्तं भवति स्म।
अयं खलु अभिक्रमितानुदेशनस्य सर्वप्रथमावस्थाऽसीत्। अभिक्रमिताधिगमः (Programmed Learning)  अभिक्रमितानुदेशनम् (Programmed Instruction) शिक्षणयन्त्रम् (Teaching Machine) चैतानि कतिपयनूतनधारणानि सन्ति, यानि वर्तमानशताब्द्याः महत्त्वपूर्णशैक्षिकक्रान्तिस्वरूपाणि कथितुं शक्यन्ते। एतास्वधिगमः शिक्षककेन्द्रितो न भूत्वा छात्रकेन्द्रितः समभवत्। तत्राधिगमप्रक्रियां व्यक्तिसापेक्षां सक्रियां तथा चाभिप्रेरणायुक्तां विधातुमिमाः प्रक्रिया अत्यन्तसहायिकास्सन्ति। आभिः प्रक्रियाभिः शिक्षायाः पूर्णोत्तरदायित्वमधिगमकर्तुरुपरि स्थानान्तरितम्भवति। अभिक्रमिताधिगमस्य विकासस्य संदर्भे प्रो० बी० एफ० स्किनरमहोदयस्य योगदानं महनीयमस्ति। प्रो० स्किनरमहोदयस्याधिगमसम्बन्धिक्रियाप्रसूतानुबन्धनस्य सम्प्रत्ययस्य फलस्वरूपमभिक्रमिताधिगमस्य धारणाया आविर्भावोऽभवदिति मन्यते।
व्यापके परिप्रेक्ष्ये महामुनिना पाणिनिना विरचिताष्टाध्यायी अभिभिक्रमिताधिगमस्य आधुनिकव्यवस्थायाः प्राचीनतमं स्वरूपं निगदितुं शक्यते। अभिक्रमस्य निर्माणाय यद्यपि कतिपयविधानां विधीनां प्रयोगः क्रियमाणः दृश्यते, येषु रेखीयाभिक्रमः, शाखीयाभिक्रमः, मैथेटिक्साभिक्रमः, स्वानुदेशिताभिक्रमः सङ्गणकाधारिताऽभिक्रमादयः महत्त्वपूर्णाः सन्ति।
रेखीयाभिक्रमः –
      अयं खलु बाह्यानुदेशनस्वरूपेऽप्यङ्गीक्रियते। प्रो. बी. एफ. स्किनर महोदयः अस्याभिक्रमस्य मुख्यः प्रतिपादकः। इदं प्रविधिज्ञानमस्मिन्नाधारितमस्ति यच्छिक्षार्थिनः प्रत्येकमुत्तरमेकस्यां समस्यायां परिवर्तितं स्यात्, यस्योत्तरं सः अग्रिमाकारस्य (फ्रेमस्य) पठनात् पूर्वमथ चाभिक्रमाकारे (फ्रेमपदवाच्ये) तस्य समाधानस्यान्वेषणं कुर्यात् तथा चायं क्रमः तावत्कालपर्यन्तं क्रियमाणः स्यात् यावत्पर्यन्तं शिक्षार्थी स्वयमेव कमपि निष्कर्षं न प्राप्तुं शक्नुयात्। स्किनरमहोदयानुसारं शिक्षणस्य सर्वोत्तमः विधिरयमेवास्ति यदध्याप्यमानानां विषयवस्तूनां  लघु लघुतरेषु च खण्डेषु विभाजितं कुर्यात् तथा चेमां सामग्रीं सम्यक् ज्ञापयन्तः पुनश्चान्ते प्रश्नस्वरूपे एवं लिख्येत यत्केवलं समीचीनमुत्तरमेव छात्राणां मष्तिष्कात् समुद्भवेत्। पुनस्ते निजोत्तराणामनुमेलनमग्रिमायामाकारे (फ्रेमपदवाच्ये) कर्तुं शक्नुयात्, यतोहि तेऽग्रिमाकारान् (ढाँचापदवाच्यांश्च) पठितुं स्वतः प्रेरिताः भवेयुः। यतोहि यदा छात्राणां निजसफलताया आभासः जायते तदा ते स्वत एव अग्रे वर्द्धितुं शक्नुवन्ति।
शास्त्रीयाभिक्रमः-
      अस्याभिक्रमस्य प्रतिपादकाः नॉर्मन ए० क्रॉउडरमहाभागा आसन्। अयमभिक्रमः विषयसामग्रीं प्रस्तोतुमेकः प्रक्रियाविशेषः किं वा प्राविधिकपद्धतिर्विद्यते। अस्मिन् प्रभाविशिक्षणस्य अनेकेषां सिद्धान्तानां प्रयोगः क्रियते। अस्मिन् समस्ता अनुक्रियाः छात्रैः नियन्त्रिताः भवन्ति। अत एवायमान्तरिकाभिक्रमोऽप्युच्यते।
मैथेटिक्स-अभिक्रमः –
      अस्य मैथेटिक्सनामकस्याभिक्रमविकासस्य श्रेयः थामस एफ. गिलवर्ट महोदयानामस्ति। मैथेटिक्स इत्यस्य तात्पर्यमस्ति यत् समूहस्य जटिलव्यवहारस्य विश्लेषणाय पुनर्निमाणाय च पुनर्बलनसिद्धान्तानां तेन सुव्यवस्थितप्रयोगेणास्ति यद्विषयवस्तुनि दक्षतां बोधयति।
     अस्याभिक्रमस्य प्रकृतिः किञ्चिज्जटिलास्ति। परन्तु कठिनकौशलानां प्रप्तौ वाञ्छितव्यवहारानयने विषयवस्तुनि च पूर्णाधिकारमर्जयितुं अत्यधिकोपादेयः विद्वद्भिः मन्यते।
स्वानुदेशिताभिक्रमः –
यथा खल्वेतन्नाम्नैव प्रतीयते यदेवंविधस्याभिक्रमस्य निर्माणं करोतु कोऽपि शिक्षकः परन्तु मुख्या भूमिका शिक्षार्थिनः एव भवति। यतोहि अस्याभिक्रमस्य प्रतिपादकानां मेगरमहोदयानामथवा प्रैसीमहोदयानामियं मान्यताऽस्ति यच्छिक्षणप्रक्रियायां शिक्षकापेक्षया शिक्षार्थिनां स्थानमधिकं महत्त्वपूर्णं भवति। गिलबर्टमहोदया अपि अस्या एव मान्यतायाः पक्षपाती विद्यते। परन्तूभयोः अभिक्रमसम्पादनकरणस्य विधिः पृथक् पृथगस्ति।
सङ्गणकसहानुदेशनम् (CAI) :-
      वर्तमानं युगं वैज्ञानिकाविष्काराणां तथा च नित्यनूतनप्रक्रियाणां (प्रविधिनां) प्रयोगैः परिपूर्णमस्ति। एकतः यत्र ग्रहनक्षत्राणां रहस्यं स्पष्टतयावगन्तुं सफलः भवति तत्रैव अपरतः शैक्षिकपर्यावरणस्य समृद्धये कोमलकठिनतन्त्रयोः (साफ्टवेयरहार्डवेयरयोः) प्रविध्योः माध्यमेन शिक्षकस्य शिक्षणस्य च स्वरूपं परिवर्तयितुं पूर्णतया प्रयत्नः कृतोस्ति। विगतेषु दशकेष्वधिगमसाधनानि मात्रात्मकगुणात्मकदृष्टिभिः सम्बर्धितानि कृतानि। अस्मिन् परिप्रेक्ष्ये संगणकस्य प्रयोगः विशेषतयोल्लेखनीयोऽस्ति। संगणकसहानुदेशनमधिगमस्यैवं विधं साधनमस्ति यद् खलु केवलाभिक्रमितानुदेशनस्य प्रस्तुतकरणमात्रं न विदधाति, प्रत्युत तद्द्वारा छात्राणां व्यवहारमपि नियन्त्रयति। सङ्गणकद्वारा परीक्षणप्रविधीनां प्रयोगं सम्पाद्य छात्राणां कौशलानामपि विकासः क्रियते। एतदन्तर्गतं शिक्षार्थिनां दत्तानां प्रदत्तानां (अदापदवाच्यानां) तथा च पूर्णव्यवहाराणां नियन्त्रणस्यैकांशः दीयते। एतदर्थमङ्कितपत्रविशेषाणां (Printed Cards) प्रयोगः क्रियते। नियन्त्रणस्यैकांशः अनुक्रमितानुदेशनस्य भाण्डागारेण छात्रानुकूलस्यानुदेशनस्य चयनं विदधाति। छात्रः तस्यानुदेशनस्याध्ययनं विदधाति। येन नवीनं ज्ञानं प्राप्यते तथा चानेन सहैव पृष्ठपोषणमपि प्राप्यते।
सङ्गणकस्य सहायतया निम्नाङ्किते द्वे तत्त्वेऽनिवार्यतया समावेशिते भवतः।
1.  सङ्गणकप्रबन्धीयानुदेशनम् (Computer Managed Instruction)
2. सङ्गणकसहानुदेशनम् (Computer Assisted Instruction)
1)   संगणकप्रबन्धीयानुदेशने छात्रः विभिन्नबिन्दुभिः प्रब्रजति। अस्मिन् शैक्षिकप्रक्रिया विभिन्नपदैः प्रचलति तथा च व्यक्तिगतयोग्यतयैव क्षमता प्रदर्शिता भवति।
संगणकसहानुदेशनम् – इदं संगणकशिक्षाप्रविधेः कठिनतन्त्रे (Hardware Approach) एव सम्मिलितम् क्रियते। इदं स्वतोऽनुदेशनात्मकपद्धतेरेकमुपकरणं कथितुं शक्यते, यस्य प्रयोगः व्यक्तिगतानुदेशनाय (Individualized Instruction) क्रियते। सङ्गणकप्रणाली व्यापारोद्योगौ शासनप्रणालीञ्चात्यधिकां प्रभावितामकरोत्। अस्य सर्वाधिकः प्रभावः विद्यालये तथा च शिक्षाव्यवस्थायां दृश्यते। संगणकयन्त्रं शिक्षणस्य क्षेत्रेऽनुदेशनपद्धतिं शोधकार्यं परीक्षाव्यवस्थाञ्च सरलमकरोत्। संगणकसहानुदेशनद्वारा छात्रैः स्वतः अन्तःप्रक्रियाद्वारा सम्बन्धः स्थाप्यते तथा च पाठः प्रस्तुतो विधीयते। छात्रेभ्यः अनया प्रविधिना साक्षादनुदेशनं दीयते तथा च तस्मै पारस्परिकक्रियायै अनुमतिः प्रदीयते। अत्यधिकानुदेशनस्य परिस्थितिष्वपीदं सङ्गणकयन्त्रं स्वं समायोजितं करोति। अस्य मुख्या विशेषता इयमस्ति यदिदमनुदेशनस्य निर्देशानामेवञ्च वार्तालापानां सूचनायाः योग्यतामादधाति। एतद्द्वारा विभिन्नप्रकारकाणां विधिषु सौविध्यं प्रदीयते।

Tuesday, June 22, 2010

अन्नानुसारिणी बुद्धिः

कस्मिंश्र्चित् राज्ये कश्र्चित् राजा शासनं करोति स्म। सः अनुचितप्रकारेण प्रजाभ्यः धनम् अर्जयति स्म। एवम् अर्जितेन धनेन सः वैभवोपेतं विलासमयं च जीवनं यापयति स्म। राज्ञःएतादृशम् आचरणं दृष्ट्वा राज्यस्य प्रजाः खिन्नाः आसन्। एकदा तत् राज्यं कश्र्चित् महात्मा आगतः। राजा महात्मानं यथोचितं सत्कृत्य प्रार्थितवान्-‘‘महात्मन्, कतिचन दिनानि राजभवने एव वासं कृत्वा भवान् अस्मान् अनुगृह्णातु’’ इति।

महात्मा राज्ञः अनुरोधपूर्णवचनम् अङ्गीकृत्य कानिचन दिनानि राजभवने एव वासः करणीयः’ इति निश्र्चितवान्। महात्मने प्रतिदिनं विशिष्टं भोजनं दीयते स्म। सेवकै प्रतिदिनं तस्य सेवा शुश्रूषा च क्रियते स्म। महात्मा आनन्देन राजभवने स्थितवान।

एकदा महाराज्ञी स्नातुं स्नानगृहं गतवती आसीत्। स्नानगृहात् आगमनसमये सा स्वस्य मुक्ताहारं तत्रैव विस्मृत्य आगतवती। किञ्चित् कालानन्तरं महात्मा अपि स्नातुं स्नानगृहं गतवान्। सः स्नानगृहे मुक्तहारं दृष्टवान्। तं दृष्ट्वा महात्मा चिन्तितवान् ’एतं मुक्ताहारं सम्प्राप्य अहम् आजीवनं सुखेन जीवितुं शक्नोमि। किमर्थं मया प्रतिदिनं भिक्षाटनं करणीयम्?’ इति। एवं विचिन्त्य सः तं मुक्ताहारं स्वीकृत्य राजभवनात् निर्गतवान्।

ततः निर्गतः सः वनाभिमुखः अभवत्। आदिनं चलित्वा रात्रौ वने एकत्र सुरक्षिते स्थले सः विश्रामं कृतवान्। प्रातः उत्थाय प्रातर्विधिं समाप्य सः यदा उपविष्टवान् तदा पूर्वदिने स्वेन कृतस्य कार्यस्य विषये तस्य मनसि चिन्तनम् आरब्धम्। सहसा तस्य विचारः परिवर्तितः जातः। यथाशीघ्रं ततः सं मुक्ताहारं प्रत्यर्पयितुं निश्र्चितवान्। अतः सः राजभवनं गतवान्। तत्र राज्ञः पुरतः स्थित्वा स्वस्य अपराधम् अङ्गीकृत्य राज्ञे मुक्ताहारं समर्पितवान्। मह्यं । यथोचितं दण्डं ददातु कृपया’इति महाराजं प्रार्थितवान् च।

महात्मनः इदं परिवर्तनं दृष्ट्वा राज्ञः आश्र्चर्यम् अभवत्। सः स्यमेव पृष्टवान् -‘‘भोः महात्मन्, प्रथमं तु भवान् मुक्ताहारं चोरयित्वा इतः निर्गतवान् आसीत्। पुनः हारं प्रत्यर्पयितुं दण्डं प्राप्तुं च किमर्थम् अत्र आगतवान?’’इति।

‘‘ सर्वम् अन्नस्य प्रभावः। मानवाः यादृशं अन्नं खादन्ति तादृशी एव भवति बुद्धिः अपि। अहं कतिचन दिनेभ्यः अनैतिकप्रकारेण अर्जितस्य भवतः अन्नस्य सेवनं कुर्वन् आसम्। तादृशस्य अनैतिकस्य अन्नस्य खादनतः मम आचारे विचारे च अपि असमीचीनः प्रभावः उत्पन्नः आसीत्। अतः एव अहं महाराज्ञयाः मुक्तहारं चोरितवान्। इतः निर्गमनानन्तरम् अत्रत्यम् अन्नम् उदरात् यदा निर्गतं तदा मम पूर्वतनः विचारः पुनः स्फुरितः। स्वच्छः विचारः यदा स्फुरितः तदा अहम् एतं मुक्ताहारं भवते समर्पयितुं, कृतस्य अपराधस्य निमित्तं दण्डं स्वीकर्तुं च अत्र आगतवान्’’ इति सविनयं निवेदितवान् महात्मा।

महात्मनः इदं वचनं श्रुत्वा राजा महात्मानं सादरं विमोचितवान्। स्वयमपि ततः आरभ्य अनैतिकमार्गेण धनार्जनं परित्यक्तवान्। दीर्घकालं यावत् च तत् राज्यम् उत्तमप्रकारेण परिपालितवान् च।

Saturday, December 5, 2009

पाणिनि : व्याकरण शास्त्र के श्रेष्ठ रचनाकार

“मैं निर्भीकतापूर्वक कह सकता हूँ कि अंग्रेज़ी या लैटिन या ग्रीक में ऐसी संकल्पनाएँ नगण्य हैं जिन्हें संस्कृत धातुओं से व्युत्पन्न शब्दों से अभिव्यक्त न किया जा सके । इसके विपरीत मेरा विश्वास है कि 250,000 शब्द सम्मिलित माने जाने वाले अंग्रेज़ी शब्दकोश की सम्पूर्ण सम्पदा के स्पष्टीकरण हेतु वांछित धातुओं की संख्या, उचित सीमाओं में न्यूनीकृत पाणिनीय धातुओं से भी कम है । …. अंग्रेज़ी में ऐसा कोई वाक्य नहीं जिसके प्रत्येक शब्द का 800 धातुओं से एवं प्रत्येक विचार का पाणिनि द्वारा प्रदत्त सामग्री के सावधानीपूर्वक वेश्लेषण के बाद अविशष्ट 121 मौलिक संकल्पनाओं से सम्बन्ध निकाला न जा सके ।”

- प्रसिद्ध जर्मन भारतविद मैक्स मूलर (1823 – 1900), अपनी पुस्तक साइंस आफ थाट में|

केवल मैक्समूलर ही नही, बल्कि विश्व के अनेक विद्वानो ने धीरे धीरे यह मान लिया है कि संस्कृत का व्याकरण संसार की सभी भाषाओ के व्याकरण से श्रेष्ठ और त्रुटिहीन है| विश्व के इस सर्वोत्तम भाषा के महान व्याकरण की रचना पाणिनि ने की थी तथा ऐसी मान्यता है कि उन्होने भगवान शिव के डमरु से निकली ध्वनियो के आधार पर इसका निर्माण किया था| अब यह कहाँ तक सत्य है, यह तो नही मालूम, परन्तु केवल 14 मुख्यसूत्रो के आधार पर संसार के सर्वश्रेष्ठ व्याकरण की रचना करना एक अदभुत कार्य है| पाणिनि ने ध्वनि, उच्चारण, और शब्दो के निर्माण का विस्तृत और वैज्ञानिक सिद्धान्त दिया| संस्कृत भारत की प्राचीन साहित्यिक भाषा है और पाणिनि इसके संस्थापक माने जाते है| ध्यान देने योग्य यह बात है कि “संस्कृत” शब्द का अर्थ होता है- “पूर्ण” अथवा “त्रुटिहीन”, और इसे देवभाषा भी मानी जाती है|

30 अगस्त 2004, भारतीय डाक विभाग ने पाणिनि के सम्मान मे 5 रूपये का एक डाक टिकट किया था| Panini

पाणिनि का समयकाल अनिश्चित तथा विवादित है । कोई उन्हें 7वीं शती ई. पू., कोई 5वीं शती या चौथी शती ई. पू. का कहते हैं। इतना तय है कि छठी सदी ईसा पूर्व के बाद और चौथी सदी ईसापूर्व से पहले की अवधि में इनका अस्तित्व रहा होगा । इनका जीवनकाल 520 – 460 ईसा पूर्व माना जाता है ।

पाणिनि के जीवनकाल को मापने के लिए यवनानी शब्द के उद्धरण का सहारा लिया जाता है । इसका अर्थ यूनान की स्त्री या यूनान की लिपि से लगाया जाता है । गांधार में यवनो (Greeks) के बारे में प्रत्यक्ष जानकारी सिकंदर के आक्रमण के पहले नहीं थी । सिकंदर भारत में ईसा पूर्व 330 के आसपास आया था । पर ऐसा हो सकता है कि पाणिनि को फारसी यौन के जरिये यवनों की जानकारी होगी और पाणिनि दारा प्रथम (शासनकाल – 421 – 485 ईसा पूर्व) के काल में भी हो सकते हैं । प्लूटार्क के अनुसार सिकंदर जब भारत आया था तो यहां पहले से कुछ यूनानी बस्तियां थीं ।

इनका जन्म तत्कालीन उत्तर पश्चिम भारत के गांधार में हुआ था। ऐसा माना जाता है कि इनका जन्म पंजाब के शालातुला में हुआ था जो आधुनिक पेशावर (पाकिस्तान) के करीब है। जहाँ काबुल नदी सिंधु में मिली है उस संगम से कुछ मील दूर यह गाँव था। उसे अब लहर कहते हैं। अपने जन्मस्थान के अनुसार पाणिनि शालातुरीय भी कहे गए हैं। और अष्टाध्यायी में स्वयं उन्होंने इस नाम का उल्लेख किया है। चीनी यात्री युवान्च्वाङ् (Xuanxang), (7वीं शती) उत्तर-पश्चिम से आते समय शालातुर गाँव में गए थे, जहाँ पर उन्होने पाणिनि की मूर्ति स्थापित देखी| पंचतंत्र की एक कथा के अनुसार, एक शेर इनकी मृत्यु का कारण बना|

पाणिनि का समय वैदिक काल के अन्त मे था, ऐसा उनके द्वारा दिये गये व्याकरण को देख कर कहा जा सकता है| वैदिक ग्रन्थो मे छन्दो के रूप के लिये उन्होने कुछ विशेष नियम दिये थे, जो कि उस समय के सामान्य बोलचाल के भाषा मे प्रयुक्त नही होते थे| इस प्रकार हम कह सकते है कि वैदिक संस्कृत पहले से ही विद्यमान थी, परन्तु वह लोक भाषा नही थी| पाणिनि के गुरु का नाम उपवर्ष और माता का नाम दाक्षी था। पाणिनि जब बड़े हुए तो उन्होंने व्याकरणशास्त्र का गहरा अध्ययन किया। इनके व्याकरण का नाम अष्टाध्यायी है जिसमें आठ अध्याय और लगभग चार सहस्र सूत्र हैं। पाणिनि से पहले शब्दविद्या के अनेक आचार्य हो चुके थे। उनके ग्रंथों को पढ़कर और उनके परस्पर भेदों को देखकर पाणिनि के मन में वह विचार आया कि उन्हें व्याकरणशास्त्र को व्यवस्थित करना चाहिए। पहले तो पाणिनि से पूर्व वैदिक संहिताओं, शाखाओं, ब्राह्मण, आरण्यक्, उपनिषद् आदि का जो विस्तार हो चुका था उस वाङ्मय से उन्होंने अपने लिये शब्दसामग्री ली जिसका उन्होंने अष्टाध्यायी में उपयोग किया है। दूसरे निरुक्त और व्याकरण की जो सामग्री पहले से थी उसका उन्होंने संग्रह और सूक्ष्म अध्ययन किया। इसका प्रमाण भी अष्टाध्यायी में है, जैसा शाकटायन, शाकल्य, भारद्वाज, गाग्र्य, सेनक, आपिशलि, गालब और स्फोटायन आदि आचार्यों के मतों के उल्लेख से ज्ञात होता है।

पाणिनि ने सहस्रों शब्दों की व्युत्पत्ति बताई जो अष्टाध्यागी के चौथे पाँचवें अध्यायों में है। ब्राह्मण, क्षत्रिय, सैनिक, व्यापारी किसान, रँगरेज, बढ़ई, रसोइए, मोची, ग्वाले, चरवाहे, गड़रिये, बुनकर, कुम्हार आदि सैकड़ों पेशेवर लोगों से मिलजुलकर पाणिनि ने उनके विशेष पेशे के शब्दों का संग्रह किया।

पाणिनि ने यह बताया कि किस शब्द में कौन सा प्रत्यय लगता है। वर्णमाला के स्वर और व्यंजन रूप जो अक्षर है उन्हीं से प्रत्यय बनाए गए। जैसे- वर्षा से वार्षिक, यहाँ मूल शब्द वर्षा है उससे इक् प्रत्यय जुड़ गया और वार्षिक अर्थात् वर्षा संबंधी यह शब्द बन गया।

अष्टाध्यायी में तद्वितों का प्रकरण रोचक है। कहीं तो पाणिनि की सूक्ष्म छानबीन पर आश्चर्य होता हैं, जैसे व्यास नदी के उत्तरी किनारे की बाँगर भूमि में जो पक्के बारामासी कुएँ बनाए जाते थे उनके नामों का उच्चारण किसी दूसरे स्वर में किया जाता था और उसी के दक्खिनी किनारे पर खादर भूमि में हर साल जो कच्चे कुएँ खोद लिए जाते थे उनके नामों का स्वर कुछ भिन्न था। यह बात पाणिनि ने “उदक् च बिपाशा” सूत्र में कही है। गायों और बैलों की तो जीवनकथा ही पाणिनि ने सूत्रों में भर दी है।

आर्थिक जीवन का अध्ययन करते हुए पाणिनि ने उन सिक्कों को भी जाँचा जो बाजारों में चलते थे। जैसे “शतमान”, “कार्षापण”, “सुवर्ण”, “अंध”, “पाद”, “माशक” “त्रिंशत्क” (तीस मासे या साठ रत्ती तौल का सिक्का), “विंशतिक” (बीस मासे की तोल का सिक्का)। कुछ लोग अबला बदली से भी माल बेचते थे। उसे “निमान” कहा जाता था।

पाणिनि के काल में शिक्षा और वाङ्मय का बहुत विस्तार था। संस्कृत भाषा का उन्होंने बहुत ही गहरा अध्ययन किया था। वैदिक और लौकिक दोनों भाषाओं से वे पूर्णतया परिचित थे। उन्हीं की सामग्री से पाणिनि ने अपने व्याकरण की रचना की पर उसमें प्रधानता लौकिक संस्कृत की ही रखी। बोलचाल की लौकिक संस्कृत को उन्होंने भाषा कहा है। उन्होंने न केवल ग्रंथरचना को किंतु अध्यापन कार्य भी किया। (व्याकरण के उदाहरणों में उनके विषय का नाम कोत्स कहा है)। पाणिनि का शिक्षा विषयक संबंध, संभव है, तक्षशिला के विश्वविद्यालय से रहा हो। कहा जाता है, जब वे अपनी सामग्री का संग्रह कर चुके तो उन्होंने कुछ समय तक एकांतवास किया और अष्टाध्यायी की रचना की। ऐसा माना जाता है कि पाणिनि ने लिखने के लिए किसी न किसी माध्यम का प्रयोग किया होगा क्योंकि उनके द्वारा प्रयुक्त शब्द अति क्लिष्ट थे तथा बिना लिखे उनका विश्लेषण संभव नहीं लगता है । कई लोग कहते है कि उन्होंने अपने शिष्यों की स्मरण शक्ति का प्रयोग अपनी लेखन पुस्तिका के रूप में किया था । भारत में लिपि का पुन: प्रयोग (सिन्धु घाटी सभ्यता के बाद) ६ठी सदी ईसा पूर्व में हुआ और ब्राह्मी लिपि का प्रथम प्रयोग दक्षिण भारत के तमिलनाडु में हुआ जो उत्तर पश्चिम भारत के गांधार से दूर था। गांधार में ६ठी सदी ईसा पूर्व में फारसी शासन था और ऐसा संभव है कि उन्होने आर्माइक वर्णों का प्रयोग किया होगा । पतंजलि ने लिखा है कि पाणिनि की अष्टाध्यायी का संबंध किसी एक वेद से नहीं बल्कि सभी वेदों की परिषदों से था (सर्व वेद परिषद)। पाणिनि के ग्रंथों की सर्वसम्मत प्रतिष्ठा का यह भी कारण हुआ। पाणिनि को किसी मतविशेष में पक्षपात न था। वे बुद्ध की मज्झिम पटिपदा या मध्यमार्ग के अनुयायी थे। शब्द का अर्थ एक व्यक्ति है या जाति, इस विषय में उन्होंने दोनों पक्षों को माना है। गऊ शब्द एक गाय का भी वाचक है और गऊ जाति का भी। वाजप्यायन और व्याडि नामक दो आचार्यों में भिन्न मतों का आग्रह या, पर पाणिनि ने सरलता से दोनों को स्वीकार कर लिया। पाणिनि से पूर्व एक प्रसिद्ध व्याकरण इंद्र का था। उसमें शब्दों का प्रातिकंठिक या प्रातिपदिक विचार किया गया था। उसी की परंपरा पाणिनि से पूर्व भारद्वाज आचार्य के व्याकरण में ली गई थी। पाणिनि ने उसपर विचार किया। बहुत सी पारिभाषिक संज्ञाएँ उन्होंने उससे ले लीं, जैसे सर्वनाम, अव्यय आदि और बहुत सी नई बनाई, जैसे टि, घु, भ आदि।

पाणिनि को मांगलिक आचार्य कहा गया है। उनके हृदय की उदार वृत्ति मंगलात्मक कर्म और फल की इच्छुक थी। इसकी साक्षी यह है कि उन्होंने अपने शब्दानुशासन का आरंभ “वृद्ध” शब्द से किया। कुछ विद्वान् कहते हैं कि पाणिनि के ग्रंथ में न केवल आदिमंगल बल्कि मध्यमंगल और अंतमंगल भी है। उनका अंतिम सूत्र अ आ है। ह्रस्वकार वर्णसमन्वय का मूल है। पाणिनि को सुहृद्भूत आचार्य अर्थात् सबके मित्र एवं प्रमाणभूत आचार्य भी कहा है।

पंतजलि का कहना है कि पाणिनि ने जो सूत्र एक बार लिखा उसे काटा नहीं। व्याकरण में उनके प्रत्येक अक्षर का प्रमाण माना जाता है। शिष्य, गुरु, लोक और वेद धातुलि शब्द और देशी शब्द जिस ओर आचार्य ने दृष्टि डाली उसे ही रस से सींच दिया। आज भी पाणिनि “शब्द:लोके प्रकाशते”, अर्थात् उनका नाम सर्वत्र प्रकाशित है। यदि महर्षि पाणिनि न होते तो दुनिया की किसी भी भाषा कोई बड़ा लेखक नहीं हो पाता। महर्षि पाणिनि ने ही भाषा की शुद्घता की जिस परंपरा को स्थापित किया, उसीका अनुरण आज दुनिया भर की भाषाओं में हो रहा है। संस्कृत विश्व की प्राचीनतम भाषा है और भाषा विज्ञान की उत्पत्ति भी संस्कृत से ही हुई है।

कृतियां
पाणिनि का संस्कृत व्याकरण चार भागों में है -

माहेश्वर सूत्र – स्वर शास्त्र
अष्टाध्यायी – शब्द विश्लेषण
धातुपाठ – धातुमूल (क्रिया के मूल रूप)
गणपाठ