Tuesday, June 22, 2010

अन्नानुसारिणी बुद्धिः

कस्मिंश्र्चित् राज्ये कश्र्चित् राजा शासनं करोति स्म। सः अनुचितप्रकारेण प्रजाभ्यः धनम् अर्जयति स्म। एवम् अर्जितेन धनेन सः वैभवोपेतं विलासमयं च जीवनं यापयति स्म। राज्ञःएतादृशम् आचरणं दृष्ट्वा राज्यस्य प्रजाः खिन्नाः आसन्। एकदा तत् राज्यं कश्र्चित् महात्मा आगतः। राजा महात्मानं यथोचितं सत्कृत्य प्रार्थितवान्-‘‘महात्मन्, कतिचन दिनानि राजभवने एव वासं कृत्वा भवान् अस्मान् अनुगृह्णातु’’ इति।

महात्मा राज्ञः अनुरोधपूर्णवचनम् अङ्गीकृत्य कानिचन दिनानि राजभवने एव वासः करणीयः’ इति निश्र्चितवान्। महात्मने प्रतिदिनं विशिष्टं भोजनं दीयते स्म। सेवकै प्रतिदिनं तस्य सेवा शुश्रूषा च क्रियते स्म। महात्मा आनन्देन राजभवने स्थितवान।

एकदा महाराज्ञी स्नातुं स्नानगृहं गतवती आसीत्। स्नानगृहात् आगमनसमये सा स्वस्य मुक्ताहारं तत्रैव विस्मृत्य आगतवती। किञ्चित् कालानन्तरं महात्मा अपि स्नातुं स्नानगृहं गतवान्। सः स्नानगृहे मुक्तहारं दृष्टवान्। तं दृष्ट्वा महात्मा चिन्तितवान् ’एतं मुक्ताहारं सम्प्राप्य अहम् आजीवनं सुखेन जीवितुं शक्नोमि। किमर्थं मया प्रतिदिनं भिक्षाटनं करणीयम्?’ इति। एवं विचिन्त्य सः तं मुक्ताहारं स्वीकृत्य राजभवनात् निर्गतवान्।

ततः निर्गतः सः वनाभिमुखः अभवत्। आदिनं चलित्वा रात्रौ वने एकत्र सुरक्षिते स्थले सः विश्रामं कृतवान्। प्रातः उत्थाय प्रातर्विधिं समाप्य सः यदा उपविष्टवान् तदा पूर्वदिने स्वेन कृतस्य कार्यस्य विषये तस्य मनसि चिन्तनम् आरब्धम्। सहसा तस्य विचारः परिवर्तितः जातः। यथाशीघ्रं ततः सं मुक्ताहारं प्रत्यर्पयितुं निश्र्चितवान्। अतः सः राजभवनं गतवान्। तत्र राज्ञः पुरतः स्थित्वा स्वस्य अपराधम् अङ्गीकृत्य राज्ञे मुक्ताहारं समर्पितवान्। मह्यं । यथोचितं दण्डं ददातु कृपया’इति महाराजं प्रार्थितवान् च।

महात्मनः इदं परिवर्तनं दृष्ट्वा राज्ञः आश्र्चर्यम् अभवत्। सः स्यमेव पृष्टवान् -‘‘भोः महात्मन्, प्रथमं तु भवान् मुक्ताहारं चोरयित्वा इतः निर्गतवान् आसीत्। पुनः हारं प्रत्यर्पयितुं दण्डं प्राप्तुं च किमर्थम् अत्र आगतवान?’’इति।

‘‘ सर्वम् अन्नस्य प्रभावः। मानवाः यादृशं अन्नं खादन्ति तादृशी एव भवति बुद्धिः अपि। अहं कतिचन दिनेभ्यः अनैतिकप्रकारेण अर्जितस्य भवतः अन्नस्य सेवनं कुर्वन् आसम्। तादृशस्य अनैतिकस्य अन्नस्य खादनतः मम आचारे विचारे च अपि असमीचीनः प्रभावः उत्पन्नः आसीत्। अतः एव अहं महाराज्ञयाः मुक्तहारं चोरितवान्। इतः निर्गमनानन्तरम् अत्रत्यम् अन्नम् उदरात् यदा निर्गतं तदा मम पूर्वतनः विचारः पुनः स्फुरितः। स्वच्छः विचारः यदा स्फुरितः तदा अहम् एतं मुक्ताहारं भवते समर्पयितुं, कृतस्य अपराधस्य निमित्तं दण्डं स्वीकर्तुं च अत्र आगतवान्’’ इति सविनयं निवेदितवान् महात्मा।

महात्मनः इदं वचनं श्रुत्वा राजा महात्मानं सादरं विमोचितवान्। स्वयमपि ततः आरभ्य अनैतिकमार्गेण धनार्जनं परित्यक्तवान्। दीर्घकालं यावत् च तत् राज्यम् उत्तमप्रकारेण परिपालितवान् च।