अस्माकं
वर्तमानशैक्षिकसंदर्भः तीव्रगत्या परिवर्तमानोऽस्ति। अधुना शिक्षणस्य धारणायाः
तस्य गतिशीलस्वरूपस्य एवं शिक्षकच्छात्रयोः भूमिकाविषये नवीनपद्धत्या विचारस्य तथा
च तस्य क्रियान्वयनकरणस्यावश्यकता वरीवर्ति। यदा खल्वस्माकं भारतीयशिक्षापद्धतिः
अधुनापि रूढिवादिताभिः पूर्वाग्रहैः ग्रसिता दृश्यमानास्ति। तत्रैव
नूतनवैज्ञानिकपद्धतिज्ञानस्य (प्रौद्योगिकज्ञानस्य) प्रयोगेण शिक्षणव्यवस्थामति
सुदृढां कर्तुं प्रयासोऽपि अनुष्ठीयते। शिक्षाक्षेत्रे दूरदर्शनस्य, आकाशवाण्याः
तथा च ध्वनिसङ्ग्रहयन्त्रस्य (टेपरेकार्डपदवाच्यस्य) प्रयोगेण सहैव संगणकेनापि विद्यालयेषु शिक्षणव्यवस्थाः
सञ्चालिताः भवन्ति, किन्त्वधिकेषु स्थानेष्वधुनापि स्लाइडनामकेन यन्त्रमाध्यमेन चलचित्रमाध्यमेनैव
च (फिलोसन) शिक्षणं भवति। कतिपयेषु विश्वविद्यालयेष्वेकं सुनिश्चितं कार्यक्रमं
संविधाय सङ्गणकमाध्यमेन छात्राणामनुदेशनं भवति। विंशत्यधिकैकोनविंशतिखृस्ताब्दे (1920)
सिडनी
एल० प्रैसीमहोदयेनैकस्यैवं विधस्यानुदेशनयन्त्रस्य निर्माणं कृतं यद्यन्त्रं
छात्राणां समक्षमेकां प्रश्नशृङ्खलां प्रस्तौति स्म तथा च प्रश्नोत्तरदानानन्तरं
त्वरितमेव तस्य निजोत्तरस्य शुद्धाशुद्धयोः ज्ञानप्राप्तिर्भवति स्म। अनेन छात्राः
निजनिर्धारितोद्देश्यानां प्राप्तये द्विगुणितशक्त्या प्रेरिताः सन्तः
प्रभावकारिपद्धत्या संलग्नाः भवन्ति स्म। यतो हि तेषां निजप्रगतेः ज्ञानमनेन सहैव
प्राप्तं भवति स्म।
अयं खलु अभिक्रमितानुदेशनस्य
सर्वप्रथमावस्थाऽसीत्। अभिक्रमिताधिगमः (Programmed Learning) अभिक्रमितानुदेशनम् (Programmed Instruction)
शिक्षणयन्त्रम् (Teaching
Machine) चैतानि कतिपयनूतनधारणानि
सन्ति, यानि वर्तमानशताब्द्याः महत्त्वपूर्णशैक्षिकक्रान्तिस्वरूपाणि कथितुं
शक्यन्ते। एतास्वधिगमः शिक्षककेन्द्रितो न भूत्वा छात्रकेन्द्रितः समभवत्।
तत्राधिगमप्रक्रियां व्यक्तिसापेक्षां सक्रियां तथा चाभिप्रेरणायुक्तां
विधातुमिमाः प्रक्रिया अत्यन्तसहायिकास्सन्ति। आभिः प्रक्रियाभिः शिक्षायाः
पूर्णोत्तरदायित्वमधिगमकर्तुरुपरि स्थानान्तरितम्भवति। अभिक्रमिताधिगमस्य विकासस्य
संदर्भे प्रो० बी० एफ० स्किनरमहोदयस्य योगदानं महनीयमस्ति। प्रो० स्किनरमहोदयस्याधिगमसम्बन्धिक्रियाप्रसूतानुबन्धनस्य
सम्प्रत्ययस्य फलस्वरूपमभिक्रमिताधिगमस्य धारणाया आविर्भावोऽभवदिति मन्यते।
व्यापके
परिप्रेक्ष्ये महामुनिना पाणिनिना
विरचिताष्टाध्यायी अभिभिक्रमिताधिगमस्य
आधुनिकव्यवस्थायाः प्राचीनतमं स्वरूपं निगदितुं शक्यते। अभिक्रमस्य निर्माणाय
यद्यपि कतिपयविधानां विधीनां
प्रयोगः क्रियमाणः
दृश्यते, येषु रेखीयाभिक्रमः, शाखीयाभिक्रमः, मैथेटिक्साभिक्रमः, स्वानुदेशिताभिक्रमः
सङ्गणकाधारिताऽभिक्रमादयः
महत्त्वपूर्णाः सन्ति।
रेखीयाभिक्रमः –
अयं खलु
बाह्यानुदेशनस्वरूपेऽप्यङ्गीक्रियते। प्रो. बी. एफ. स्किनर महोदयः अस्याभिक्रमस्य
मुख्यः प्रतिपादकः। इदं प्रविधिज्ञानमस्मिन्नाधारितमस्ति यच्छिक्षार्थिनः
प्रत्येकमुत्तरमेकस्यां समस्यायां परिवर्तितं स्यात्, यस्योत्तरं सः अग्रिमाकारस्य
(फ्रेमस्य) पठनात् पूर्वमथ चाभिक्रमाकारे (फ्रेमपदवाच्ये) तस्य समाधानस्यान्वेषणं
कुर्यात् तथा चायं क्रमः तावत्कालपर्यन्तं क्रियमाणः स्यात् यावत्पर्यन्तं
शिक्षार्थी स्वयमेव कमपि निष्कर्षं न प्राप्तुं शक्नुयात्। स्किनरमहोदयानुसारं
शिक्षणस्य सर्वोत्तमः विधिरयमेवास्ति यदध्याप्यमानानां विषयवस्तूनां लघु लघुतरेषु च खण्डेषु विभाजितं कुर्यात् तथा
चेमां सामग्रीं सम्यक् ज्ञापयन्तः पुनश्चान्ते प्रश्नस्वरूपे एवं लिख्येत यत्केवलं
समीचीनमुत्तरमेव छात्राणां मष्तिष्कात् समुद्भवेत्। पुनस्ते
निजोत्तराणामनुमेलनमग्रिमायामाकारे (फ्रेमपदवाच्ये) कर्तुं शक्नुयात्, यतोहि
तेऽग्रिमाकारान् (ढाँचापदवाच्यांश्च) पठितुं स्वतः प्रेरिताः भवेयुः। यतोहि यदा
छात्राणां निजसफलताया आभासः जायते तदा ते स्वत एव अग्रे वर्द्धितुं शक्नुवन्ति।
शास्त्रीयाभिक्रमः-
अस्याभिक्रमस्य
प्रतिपादकाः नॉर्मन ए० क्रॉउडरमहाभागा आसन्। अयमभिक्रमः विषयसामग्रीं
प्रस्तोतुमेकः प्रक्रियाविशेषः किं वा प्राविधिकपद्धतिर्विद्यते। अस्मिन्
प्रभाविशिक्षणस्य अनेकेषां सिद्धान्तानां प्रयोगः क्रियते। अस्मिन् समस्ता
अनुक्रियाः छात्रैः नियन्त्रिताः भवन्ति। अत एवायमान्तरिकाभिक्रमोऽप्युच्यते।
मैथेटिक्स-अभिक्रमः –
अस्य
मैथेटिक्सनामकस्याभिक्रमविकासस्य श्रेयः थामस एफ. गिलवर्ट महोदयानामस्ति।
मैथेटिक्स इत्यस्य तात्पर्यमस्ति यत् समूहस्य जटिलव्यवहारस्य विश्लेषणाय
पुनर्निमाणाय च पुनर्बलनसिद्धान्तानां तेन सुव्यवस्थितप्रयोगेणास्ति
यद्विषयवस्तुनि दक्षतां बोधयति।
अस्याभिक्रमस्य प्रकृतिः किञ्चिज्जटिलास्ति।
परन्तु कठिनकौशलानां प्रप्तौ वाञ्छितव्यवहारानयने विषयवस्तुनि च
पूर्णाधिकारमर्जयितुं अत्यधिकोपादेयः विद्वद्भिः मन्यते।
स्वानुदेशिताभिक्रमः –
यथा
खल्वेतन्नाम्नैव प्रतीयते यदेवंविधस्याभिक्रमस्य निर्माणं करोतु कोऽपि शिक्षकः
परन्तु मुख्या भूमिका शिक्षार्थिनः एव भवति। यतोहि अस्याभिक्रमस्य प्रतिपादकानां मेगरमहोदयानामथवा
प्रैसीमहोदयानामियं मान्यताऽस्ति यच्छिक्षणप्रक्रियायां शिक्षकापेक्षया
शिक्षार्थिनां स्थानमधिकं महत्त्वपूर्णं भवति। गिलबर्टमहोदया अपि अस्या एव
मान्यतायाः पक्षपाती विद्यते। परन्तूभयोः अभिक्रमसम्पादनकरणस्य विधिः पृथक्
पृथगस्ति।
सङ्गणकसहानुदेशनम्
(CAI)
:-
वर्तमानं युगं
वैज्ञानिकाविष्काराणां तथा च नित्यनूतनप्रक्रियाणां (प्रविधिनां) प्रयोगैः
परिपूर्णमस्ति। एकतः यत्र ग्रहनक्षत्राणां रहस्यं स्पष्टतयावगन्तुं सफलः भवति
तत्रैव अपरतः शैक्षिकपर्यावरणस्य समृद्धये कोमलकठिनतन्त्रयोः
(साफ्टवेयरहार्डवेयरयोः) प्रविध्योः माध्यमेन शिक्षकस्य शिक्षणस्य च स्वरूपं
परिवर्तयितुं पूर्णतया प्रयत्नः कृतोस्ति। विगतेषु दशकेष्वधिगमसाधनानि
मात्रात्मकगुणात्मकदृष्टिभिः सम्बर्धितानि कृतानि। अस्मिन् परिप्रेक्ष्ये संगणकस्य
प्रयोगः विशेषतयोल्लेखनीयोऽस्ति। संगणकसहानुदेशनमधिगमस्यैवं विधं साधनमस्ति यद्
खलु केवलाभिक्रमितानुदेशनस्य प्रस्तुतकरणमात्रं न विदधाति, प्रत्युत तद्द्वारा
छात्राणां व्यवहारमपि नियन्त्रयति। सङ्गणकद्वारा परीक्षणप्रविधीनां प्रयोगं
सम्पाद्य छात्राणां कौशलानामपि विकासः क्रियते। एतदन्तर्गतं शिक्षार्थिनां
दत्तानां प्रदत्तानां (अदापदवाच्यानां) तथा च पूर्णव्यवहाराणां नियन्त्रणस्यैकांशः
दीयते। एतदर्थमङ्कितपत्रविशेषाणां (Printed Cards) प्रयोगः क्रियते।
नियन्त्रणस्यैकांशः अनुक्रमितानुदेशनस्य भाण्डागारेण छात्रानुकूलस्यानुदेशनस्य
चयनं विदधाति। छात्रः तस्यानुदेशनस्याध्ययनं विदधाति। येन नवीनं ज्ञानं प्राप्यते
तथा चानेन सहैव पृष्ठपोषणमपि प्राप्यते।
सङ्गणकस्य सहायतया
निम्नाङ्किते द्वे तत्त्वेऽनिवार्यतया समावेशिते भवतः।
1. सङ्गणकप्रबन्धीयानुदेशनम्
(Computer Managed Instruction)
2. सङ्गणकसहानुदेशनम्
(Computer Assisted Instruction)
1) संगणकप्रबन्धीयानुदेशने
छात्रः विभिन्नबिन्दुभिः प्रब्रजति। अस्मिन् शैक्षिकप्रक्रिया विभिन्नपदैः प्रचलति
तथा च व्यक्तिगतयोग्यतयैव क्षमता प्रदर्शिता भवति।
संगणकसहानुदेशनम् –
इदं संगणकशिक्षाप्रविधेः कठिनतन्त्रे (Hardware Approach)
एव सम्मिलितम् क्रियते। इदं स्वतोऽनुदेशनात्मकपद्धतेरेकमुपकरणं कथितुं शक्यते,
यस्य प्रयोगः व्यक्तिगतानुदेशनाय (Individualized Instruction) क्रियते।
सङ्गणकप्रणाली व्यापारोद्योगौ शासनप्रणालीञ्चात्यधिकां प्रभावितामकरोत्। अस्य
सर्वाधिकः प्रभावः विद्यालये तथा च शिक्षाव्यवस्थायां दृश्यते। संगणकयन्त्रं
शिक्षणस्य क्षेत्रेऽनुदेशनपद्धतिं शोधकार्यं परीक्षाव्यवस्थाञ्च सरलमकरोत्।
संगणकसहानुदेशनद्वारा छात्रैः स्वतः अन्तःप्रक्रियाद्वारा सम्बन्धः स्थाप्यते तथा
च पाठः प्रस्तुतो विधीयते। छात्रेभ्यः अनया प्रविधिना साक्षादनुदेशनं दीयते तथा च
तस्मै पारस्परिकक्रियायै अनुमतिः प्रदीयते। अत्यधिकानुदेशनस्य परिस्थितिष्वपीदं
सङ्गणकयन्त्रं स्वं समायोजितं करोति। अस्य मुख्या विशेषता इयमस्ति यदिदमनुदेशनस्य
निर्देशानामेवञ्च वार्तालापानां सूचनायाः योग्यतामादधाति। एतद्द्वारा
विभिन्नप्रकारकाणां विधिषु सौविध्यं प्रदीयते।
No comments:
Post a Comment