Wednesday, December 5, 2018

श्रीमद्भागवतदशमस्कन्धानुसारं गोपीकृष्णसम्बन्धः


श्रीमद्भागवतमहापुराणस्य दशमस्कन्धः ज्योतिस्वरूपो विद्यते। क्रीडनार्थं लोकरञ्जनार्थं किं वा भक्तकल्याणार्थं भागद्वये राधामाधवस्वरूपे द्विधा विभक्तोऽस्ति। अत्र नवतिरध्यायाः षट्चत्वारिंशतोत्तरनवशताधिकत्रिसहस्रमन्त्राः किंवा श्लोकास्सन्ति। दशमस्कन्धः कालव्यालमुखग्रासत्रासनिर्णासकारकः सर्वविधभवसागरव्याधिदशनपुरस्सरनिकुञ्जानन्दप्रदायको विद्यते। यतोहि गोलोकमध्ये विराजमाने वृन्दावने शोभासम्पन्नः राधावरः श्रीकृष्णः रसस्वरूपो विद्यते। यथोक्तमुपनिषदि –
रसो वै सः। रसं ह्येवायं लब्ध्वा नन्दी भवति। (तै०उ०)
एवञ्च दशमस्कन्धे रसवर्णनं विद्यते। रसानां समूहः रासः भवति। रासेन धर्मार्थकाममोक्षस्वरूपपुरुषार्थप्राप्तिः सुलभतयैव भवति। अष्टौ काव्ये रसाः स्मृताः’ इति वचनेन प्रधानपत्न्यः अष्टौ रसाः तथा च अष्टोत्तरशताधिकषोडशसहस्रपत्न्यः मन्त्रात्मिकाः गोप्योऽपि वेदपुरुषस्य पत्न्यः सन्ति।
जनानां मनसि गोपीकृष्णयोः सम्बन्धविषये अनेकाः भ्रान्तय उत्पन्नाः भवन्ति, यथा – श्रीकृष्णः अष्टोत्तरशताधिकषोडशसहस्रविवाहः कृतः, मथुरागमनात्पूर्वं बहुभिः गोपिकाभिस्सह मधुरः सम्बन्धश्च स्थापितः। कीदृशोऽयं योगेश्वरः यः स्त्रीभिस्सहातिकामुकनेव व्यवहरति स्म। सनातनविरोधिनः किंवाऽन्यधर्मावलम्बिनस्तु एवमाक्षेपं कुर्वन्त्येव भक्तानां मनस्यप्येतादृशी जिज्ञासोत्पद्यते। कारणमेतस्यैवमस्ति यत्ते घटनाक्रमं सावधानमनसा नावलोकयन्ति। यतोहि योगीश्वरस्य कृष्णस्य व्रजे सति गोप्यः सर्वदैव कृष्णदर्शनायोत्सुकाः भवन्ति स्म। एकस्मिन्नहनि यदा यशोदया बालकृष्णः गृहे एव निरुद्धः तदा कृष्णादर्शनेन व्यग्राः गोप्यः नन्दगृहमागत्य यशोदां कृष्णं प्रत्युपलब्धुमेवं प्रोवाच् –
वत्सान् मुञ्चन् क्वचिदसमये क्रोशसंजातहासः स्तेयं स्वाद्वत्त्यथ दधि पयः कल्पितैः स्तेययोगैः।
मर्कान् भोक्ष्यन् विभजति स चेन्नात्ति भाण्डं भिनत्तिद्रव्यालाभे स गृहकुपितो यात्युपक्रोश्य तोकान्॥[1]
अपि च
हस्तग्राह्ये रचयति विधिं पीठकोलूखलाद्यैश्छिद्रः ह्यन्तर्निहितवयुनः शिक्यभाण्डेषु तद्वित्।
ध्वान्तागारे धृतमणिगणं स्वांगमर्थप्रदीपं काले गोप्यो यर्हि गृहकृत्येषु सुव्यग्रचित्ताः॥[2]
       यशोदा ब्रजाङ्गनानां मानसिकावस्थामवलोक्य कृष्णं गोपीनां मध्ये आनयति तदा गोप्यः आनन्दमनुभवन् कथयन्ति यत् वयन्त्वत्र केवलं कृष्णं द्रष्टुमागताः स्मः, यतोह्यद्य त्वया कृष्णः गृहे एव निरुद्धः। प्रातः कालादेव एतस्य दर्शनमस्मास्भिर्न कृतम्, तेनास्माकं मनः व्यग्र आसीत्। अत एव वयमुपालब्धुव्याजं समागतास्स्म। गोप्यः कृष्णस्य वेणोः ध्वनिमाधुर्ये मुग्धा आसन्नेव कृष्णस्य च प्रतिचेष्टं, मुखाकृतिं, हासं रूपमाधुर्यञ्च प्रतिक्षणं स्मरन्ति स्म। ताः कृष्णं नवनीतं खादयन्ति स्म चौरमपि कथयन्ति स्म। मार्गशीर्षे मासि व्रजकुमारिभिः भगवत्याः कात्यायन्याः पूजा कृता व्रतश्चाचरितः येन ताः कृष्णं पतिरूपेणे प्राप्तुं शक्नुयुः। यदा गोपाः वस्त्रं विना यमुनायां स्नानं कुर्वन्ति स्म तदा ताः शिक्षयितुं कृष्णः सखिभिस्सह तासां वस्त्रान्नाहरति –
तासां वासांस्युपादाय नीपमारुह्य सत्वरः। हसद्भिः प्रहसन् बालै परिहासमुवाच ह॥[3]
पुनश्च
यूयं विवस्त्रा यदपो धृतव्रता व्यगाहतैतत्तदु देवहेलनम्।
बद्ध्वाञ्जलिं मूर्ध्न्यपनुत्तयेंऽहसः कृत्वा नमोऽधो वसनं प्रगृह्यताम्॥[4]
इत्यादिरूपेण ताः शिक्षयति श्रीकृष्णः तथा च यदा व्रजकुमार्यः वरुणदेवताम्प्रति स्वक्षमायाचनामर्पयन्ति तदा कृष्णः तासां वसनानि प्रत्यर्पयति।
       रासलीलावसरे योगीश्वरः श्रीकृष्णः दशवर्षीय एवासीत्। कामप्यागन्तुं सन्देशं न प्रेषयति श्रीकृष्णः। गोपीनां कामनापूर्त्यर्थं वेणोरस्पष्टं मधुरञ्च कामबीजं क्लीं’ इति ध्वनिं वादयति। प्रत्येकं गोपी स्वस्यायेव निमत्रणं मत्वान्योन्यमलक्षितोद्यमाः ताः तत्र प्राप्ताः यत्र योगेशः स्थित आसीत्। शरन्मासस्य पूर्णिमाया रात्रिरियम्। सर्वप्रथममं तासां स्वागतं व्याहरति श्रीष्णः –
स्वगतं वो महाभागाः प्रियं किं करवाणि वः। ब्रजस्यानामयं कच्चिद् ब्रूतागमनकारणम्॥[5]
पुनश्च ताः उपदिशति यद्भवतीनामाचरणं धर्मविरुद्धमस्ति। निशाकालस्तु भयानको भवति। अत्रेदानीन्नागन्तव्यमासीत् –
रजन्येषा घोररूपा घोरसत्वनिषेविता। प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सुमध्यमाः॥[6]
ततः गोप्यः दुःखेन विह्वलाः भूत्वा रुदन्ति, अनुनयविनयपूर्वकं कथयन्ति च –
मैवंविभोर्हति भवान् गदितुं नृशंसं सन्त्यज्य सर्वविषयांस्तव पादमूलम्।
भक्ता भजस्व दुरवग्रह मा त्यजास्मान् देवो यथादिपुरुषो भजते मुमुक्षून्॥[7]
पुनश्च
सिञ्चाङ्ग नस्त्वधरामृतपूरकेण हासावलोककलगीतजहृच्छयाग्निम्।
नो चेद्वयं विरहजाग्न्युपयुक्तदेहा ध्यानेन याम पदयोः पदवीं सखे ते॥[8]
       ततः भगवता स्वचेष्टाः गोपीनामनुकूलाः कृताः। ताभिस्सह विहरति श्रीकृष्णः। तेन विहरणेन सम्मानं प्राप्य मानवत्योऽभवन् भुव्यात्मानं सर्वश्रेष्ठं परिकल्पन्ते। तासां तत्सौभाग्यमदं वीक्ष्य केशवः तत्रैवान्तरधीयत। सहसैव भगवत्यन्तर्निहिते व्रजाङ्गनाः अतप्यंस्तमचक्षाणाः। गोप्यः कृष्णदर्शनलालसा चित्रधा प्रगायन्त्यः प्रलपन्त्यः सुस्वरञ्च रुरुदुः। गोपीनामार्तभावं वीक्ष्य पीताम्बरधरः तासामाविरभूत् ताभिस्सह च यमुनायाः पुलिने प्रविश्य रासं व्याहरत् –
रासोत्सवः सम्प्रवृत्तो गोपीमण्डलमण्डितः। योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर्द्वयोः।
प्रविष्टेन गृहीतानां कण्ठे स्वनिकटं स्त्रियः॥[9]
ब्रह्मरात्र उपवृत्ते वासुदेवेनानुमोदिताः गोप्योऽनिच्छन्त्यो स्वगृहान् ययुः। गृहे च कृष्णस्य मायया गोपाः स्वान् स्वान् दारान् स्वपार्श्वस्थानं मन्यमानाः कृष्णाय खलु नासूयन्।
       किञ्चित्कालानन्तरं कृष्णः मथुरामाप्नोत्। न कदापि पुनः व्रजं प्रत्यावर्तत। पूर्वघटितानां मधुरस्मृतीनामाधारेणैव श्रीकृष्णं स्वसर्वस्वं मानयन् व्रजाङ्गनाः जीवमानाः। तासां कृष्णेन सह पुनर्मेलनं सूर्यग्रहणावसरे समन्तपञ्चकक्षेत्रेऽभूत्। तत्र वासुदेवं प्राप्य गोप्यः मनसि अत्यानन्दमनुभवन्ति। तत्र गोपालनन्दनः ताः कथयति यत् –
मयि भक्तिर्हि भूतानाममृतत्वाय कल्पते। दिष्ट्या यदासीन्मत्स्नेहो भवतीनां मदापनः॥[10]
कर्हिचित् सुखमासीनं जगद्गुरुं रुक्मिणी पर्यचरत्तदा भगवान् रुक्मिणीम्प्रति प्रोवाच – भूपैः लोकपालैः विभूतिभिः ये खलु रूपौदार्यबलोर्जितास्सन्ति ताभिः भैष्मीप्सिता। पुनश्च भवत्याः पिता भ्राता च शिशुपालेन तव विवाहस्य वाग्दानमपि कृतवन्तौ स्तः। कथं पुनः भवती तान् प्राप्तानर्थिनो हित्व मामसमं बवृषे? यादवानामस्माकं लोकव्यवहारमपि समुचितन्नास्ति। न वयं कस्यापि मार्गविशेषस्यानुनायिनः। अतो यदि वैदर्भी इच्छेच्चेत् स्वनिर्णये पुनर्विचारं वा कृत्वा स्वानुरूपेण केनापि योग्यवरेण सह विवाहं कर्तुं शक्नोति। त्रिलोकेशपतेरात्मनः प्रियस्यैवम्प्रकारकमश्रुतपूर्वमप्रियमाश्रुत्य जातवेपथुः रुक्मिणी भीता भवति तथा च सा हृदि दुरन्तां चिन्तां प्राप्नोत्येवञ्च रुदति। भैष्म्याः मनसि शंका उत्पद्यते यत्किं जगत्पतिः मान्त्यक्तुमिच्छति? तदा हास्यप्रौढिभ्रान्ता वैदर्भी भगवता परिसान्त्विता। पुनः तत्परिहासोक्तिं ज्ञात्वा प्रियत्यागभयञ्च जहौ भगवन्मुखञ्च वीक्षन्ती सा बभाष – पुरुषोत्तमकृष्णेन जीवने यदपि व्यवहृतं, तेषु सर्वेषु तस्य शारीरिकस्य सुखभोगस्य कामना कदापि नासीत्। याः अष्टौ प्रधानपत्न्यः सन्ति, ताभिस्सह विवाहोऽपि तासां कामनापूर्त्यायभूत्। शताधिषोडशसहस्रविवाहोऽपि राजपुत्रीणामुद्धारनिमित्तमेवाभूत्। ब्रजाङ्गनाभिस्सह रासोऽपि गोपीनां कामनापूर्त्यायभवत्, स्ववचनानुपालनमात्रमेवासीत्। वर्णनानुसारं गोप्यस्तु श्रुतिरूपा एव, पुनश्च श्रुतीनां वेदपुरुषेण कृष्णेन सह सम्बन्धस्त्वति दिव्यं पवित्रञ्चास्ति। अथ च वर्णितमस्ति –
विक्रीडितं व्रजवधूभिरिदं च विष्णोः श्रद्धान्वितोऽनुशृणुयादथ वर्णयेद् यः।
भक्तिं परां भगवति प्रतिलभ्य कामं हृद्रोगमाश्वपहिनोत्यचिरेण धीरः॥[11]
शरशय्यायां स्थितः सन् भीष्मः जगत्प्रभोः महतीं स्तुतिं विदधति। तस्यां स्तुतौ तेन गोपीनामपि स्तुतिः कृता
ललितगतिविलासवल्गुहासप्रणयनिरीक्षणकल्पितोरुमानाः।
कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिमगन् किल यस्य गोपवध्वः॥[12]
तात्कालिकेन केनापि, महात्मना किंवा ऋषिणा स्त्रीणां सन्दर्भे कृष्णस्य विषये कीदृश्यपि प्रतिकूला टिप्पणी न कृता।
विश्वस्य उत्पत्तिस्थितिप्रलयकारणस्य श्रीकृष्णस्य लीला न कोऽप्यन्यः कर्तुं शक्नोति। यथा लीलापुरुषोत्तमः श्रीकृष्णश्चकार। अत एव तेषां कर्मणां गानं श्रवणं सर्वथा कर्त्तव्यमस्ति। अनेनैव मोक्षमार्गस्वरूपस्यास्य श्रीकृष्णस्यानुसरणेन श्रीकृष्णचरणयोः परमप्रेममयी भक्तिर्जायते। यतो ह्ययं स्वयं रासस्वरूपो किंवा आनन्दस्वरूपो विद्यते।
आनन्दं ब्रह्मणो विद्वान् न बिभेति कदाचन।[13]
स्वप्रकाशानन्दः सर्वतन्त्रस्वतन्त्रः चिन्मयो रसस्वरूपः परमब्रह्म विद्यते। अस्य ब्रह्मणः आनन्दास्वादो द्विधानुभूयते। मुख्यरूपेण गौणरूपेण च। तत्र वेदान्तमाध्यमेनानुभूयमानो ब्रह्मानन्दास्वादो साहित्ये ब्रह्मास्वादसहोदरः कथ्यते। स एव प्रथमः आनन्दो भावुकैः साधकैरनुभूयते, सोऽपिकेवलं माधुर्यभावोपासकैरेव। उपासनायां शान्तदास्यसख्यवात्सल्यमधुरभावेषु मधुरभावापरपर्यायो गोपीभाव एव सर्वश्रेयानिति विबुधवरैर्भक्तैरुच्यते। यथोक्तं प्रकाण्डदार्शनिकैन्र्यायवेदान्ताद्यनेकशास्त्रमर्मज्ञैः अद्वैतसिद्धिसदृशाद्वैतवादस्य परमोच्चकोटिकग्रन्थकारैरनन्यश्रीकृष्णभक्तैः स्वामिश्री मधुसूदनसरस्वतीपादैः स्वरचिते भक्तिरसायनग्रन्थे -
शृङ्गारो मिश्रितत्वेऽपि सर्वेभ्यो बलवत्तरः। तीव्रतीव्रतरत्वं हि रतेस्तत्रैव वीक्ष्यते।।[14]
इत्यादिना शृङ्गारभक्तेरेव श्रेष्ठत्ववर्णनात्। भावेऽस्मिन्नेव सर्वेषां शान्तादिभावानां भवति समाहारः। मधुरेऽस्मिन् गोपीभावे शान्तदास्यसख्यवात्सल्यादीनां समावेशः सहृदयहृदयवेद्यः। यथा -
यत्ते सुजातचरणाम्बुरुहं स्तनेषु भीताः शनैः प्रियदधीमहि कर्कशेषु।
तेनाटवीमटसि तद्व्यथते न किंस्वित्कूर्पादिभिभ्र्रमति धीर्भवदायुषां नः।।[15]
इत्यादौ गोपीगीतेषु तासां शृङ्गाररसोपासिकानां व्रजसुन्दरीणां वात्सल्यं सुस्पष्टम्।
न खलुगोपिकानन्दनो भवानखिलदेहिनामन्तरात्मदृक्।
विखनसार्थितो विश्वगुप्तयेसख उदेयिवान् सात्वतां कुले।।[16]
इत्यादौ शान्तभावस्य -
भज सखे भवत् किङ्करीः स्म नो, जलरुहाननं चारु दर्शय।[17]
इत्यत्र सख्यभावस्य स्पष्टत्वात्।
फणिफणार्पितं ते पदाम्बुजं कृणु कुचेषु नः कृन्धि हृच्छयम्।[18]
इत्यादौ मधुरभावस्य स्पष्टत्वात्। मधुरभाव एव रसरूपस्य ब्रह्मानन्दस्य भगवतः पूर्णानुभवः पूर्णोपभोगश्चेत्यत्रैव एकस्य महाभागवतस्य कस्यचित् रसमर्मज्ञस्यानुभूतिः सहृदयैरवश्यं चिन्तनीया -
मुक्तमुनीनां मृग्यं किमपि फलं देवकी फलति। तत्पालयति यशोदा प्रकाममुपभुञ्जते गोप्यः।।[19]
अर्थात् रसमयं हेयादिविवर्जितम् -
पिबत भागवतं रसमालयम्।[20]
इत्यादिना श्रीमद्भागवते महापुराणे समुपवर्णितं सर्वाकर्षकं कृष्णाभिधानमितररागविस्मारकं किमप्यनिर्वचनीयं तत्फलं मथुरामण्डले देवकीतरौ फलति। तत्फलमद्यापि मुक्तमुनीनामपि मृग्यमेव, अतिदुर्लभत्वात् इदानींपर्यन्तमप्राप्तमेव। देवकीतरौ निष्पद्यमानं सुदुर्लभं तत्फलं यशोदानाम्नी काचित् महाभागा गोपी पालयति, परं तस्य फलस्य रसस्य प्रकामोपभोगो महाभागाभिः व्रजसुन्दरीभिरेव क्रियते। सर्वथा सत्येयमनुभूतिः सहृदयहृदयवेद्या श्रुत्यादिशास्त्रसिद्धा च।
अनेन सिद्ध्यति यदेकैव परब्रह्म राधाकृष्णात्मकं किं वा गोपीकृष्णात्मकम्। अर्थान्नित्यः गोपीकृष्णसम्बन्धः।



[1] श्रीम०भा० 10/8/29
[2] श्रीम०भा० 10/8/30
[3] श्रीम०भा० 10/22/9                                                           
[4] श्रीम०भा० 10/22/19
[5] श्रीम०भा० 10/29/18
[6] श्रीम०भा० 10/29/19
[7] श्रीम०भा० 10/29/31
[8] श्रीम०भा० 10/29/35
[9] श्रीम०भा० 10/33/3
[10] श्रीम०भा० 10/82/45
[11] श्रीम०भा० 10/33/40
[12] श्रीम०भा० 1/9/40
[13] वेदान्तसार भूमिका, पृ0 15
[14] भक्ति रसा0 2/36
[15] श्रीम०भा० 10/31/19
[16] श्रीम०भा० 10/31/4
[17] श्रीम०भा० 10/31/6
[18] श्रीम०भा० 10/31/7
[19] श्रीपद्यावली, पृ0 167
[20] श्रीम०भा० 1/1/3

No comments:

Post a Comment